पोस्ट में पूछे जाने वाले सवालों का उत्तर और पाठ या अध्याय को पढ़ने या वीडियो देखने के बाद आपने जो भी सीखा ? उसे आप हमें COMMENT BOX में लिख कर भेज सकते हैं ताकि अन्य विद्यार्थी भी लाभान्वित हो सके.

कक्षा 10 संस्कृत पाठ 4 बिलासा

0

रतनपुरस्य जनपदान्तर्गते शताधिकवर्षपूर्वं ‘लगरा’ इति ग्रामात् स्वपत्न्या सह जीवकोपार्जनार्थ ‘परसू’ नाम्नः कैवर्त्यः निर्गतः। तौ अरपानदयाः तटे अतिष्ठताम्। अरपायाः तटे एक. लघुग्रामः आसीत्। परसू अरपानयां प्रतिदिनं मत्स्याखेटं करोति स्म। कालान्तरेण तस्य भार्या बैसाखा एकां स्वस्थां बालाम् अजनयत्। सा बालिका लावण्यवती आसीत्। लावण्येन तस्याः ‘बिलासा’ इति नामकरणमभवत्।

बिलासा शैशवकाले बाला बालैः सह क्रीडति स्म। तस्यै बालकानां क्रीडनकं क्रीडनं च रोचते स्म। बिलासा अदम्य साहसिका आसीत्। एकदा सुप्तं बालं नीत्वा वृक्कः पलायनं कुर्वन् आसीत्। तदा बिलासा वृक्कं दण्डेन ताइयित्वा बालकं मुक्तं कृत्वा मातरं समर्पयत्। बालकैः सह बिलासा मल्ल- कौशल शिक्षते स्म। तं साहसं दृष्टवा जनैः तस्याः दलायग्रामरक्षणस्य दायित्वं प्रदतम्।

यदा वर्षाकाले अरपानदयां जलप्लावनं जातम्। तदा बिलासा नौकया जनान् संतारयति स्म। एवमेव सा नौकाचालनेऽपि पारङ्गता जाता। सा लोकनृत्यगीतयोः अपि सिद्धा आसीत्। ग्रामस्य सर्वेषु कार्यक्रमेषु सा अग्रसरासीत्।

कालान्तरे बिलासायाः विवाहः बंशी नाम्ना युवकेन सह अभवत्। बिलासा प्रतिदिनं चार- तेन्दू’ इति वन्यफलानि संग्रहणार्थं गच्छति स्म। तथा च बंशी महिषचारणाय वनं प्रति अगच्छत्। यदा सायंकाले बिलासा पत्या साकं गृहं प्रति न्यवर्तयति स्म तदा सहसा आखेटाय अमतः राज्ञः कल्याणसायस्योपरि एकः व्याघ्रः आक्रमणं कृतवान्। तं विलोक्य बिलासा व्याघ्रम् कुन्तेन प्रहार्य राज्ञः प्राणान अरक्षयत्। अनया कल्याणसायः बिलासया प्रभावितो भूत्वा अपरं दिवसं अरपानद्याः वयोः तटयोः ‘जागीर बिलासायं दत्तवान्। तथा च राजा रतनपुरं प्रत्यागतः। अनन्तरं तां खड्गेन अलंकृत्य ‘महिला-सेनापति’ इति पदे न्ययोजयत्।

बिलासा स्वप्रयत्नेन ग्रामस्य विकासः कृतवती। तस्याः वर्धमानं प्रभावं दृष्टवा प्रतिवेशिनः राज्यानि तस्याः क्षेत्रे आक्रमणं कृतवन्तः। तैः सह बिलासा साहसेन युद्धम् अकरोत्। सा राज्यरक्षा कुर्वती वीरगति प्राप्तवती। राजा कल्याणसायः मत्स्याखेटकानां निवासस्थलं बिलासायाः सम्मानार्थ ‘बिलासापुरम् इति नाम्ना प्रथितम्। वर्तमाने इदं बिलासपुर छत्तीसगढस्य न्यायधानी अस्ति।

बिलासा स्वकार्येण न केवलं स्वसमाजं अपितु समस्त-छत्तीसगढप्रान्त सम्मानीतास्ति। सम्प्रति छत्तीसगढसर्वकारेण मत्स्यपालनक्षेत्र प्रोत्साहनार्थ तया नाम्ना ‘चिलासाबाई केवटिन’ इति पुरस्कारः प्रतिवर्षः दीयते। अपि तया नाम्जा बिलासपुरे बिलासातालः, बिलासा कज्या-स्नातकोत्तर-महाविद्यालयः बिलासाचतुष्पथः प्रभृतयः गौरवान्विताः सन्ति। एवमेव छत्तीसगढस्य पूज्या बिलासा साहस-शौर्य- कर्मनिष्ठाक्षेत्रे आदर्शभूतास्ति।


अभ्यासः
1
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) परसू कुत्र मत्स्याखेट अकरोत्?
(ख) जनैः तस्याः दलाय कस्य दायित्व प्रदत्तम?
(ग) बिलासायाः विवाहः केन सह अभवत्?
(घ) राजा बिलासा कस्मिन पदे अनियोजयत?
(ङ) मत्स्यपालनक्षेत्रे कः पुरस्कारः दीयते?

Leave A Reply

Your email address will not be published.